आकाशं चित्रवर्णैः लेपयन् तृश्शूर्पूरमहोत्सवस्य समारम्भः।
ह्यः सम्पन्नायाः आदर्शरूपप्रस्फोटकाग्निक्रीडा। |
तृश्शूर्> रविवासरे आरम्भमाणं पूरमहोत्सवमुद्घोषयन् त्रिश्शिवपुरे आकाशं चित्रवर्णैः लेपयन् आदर्शरूपेण प्रस्फोटकाग्निक्रीडा अद्य समारब्धा। प्रथमतया तिरुवम्पाडि अनन्तरं पारमेक्काव् इति क्रमेण प्रस्फोटकाग्निक्रीडा समारब्धा। पूरमहोत्सवं द्रष्टुं राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च सञ्चारिणः समागताः सन्ति।