अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम् ।
उद्धवपौराणिकः |
(वृत्तप्रेषक: डॉ.दिनेश: चौबे)
नवदेहलीस्थ-केंद्रीयसंस्कृत-विश्वविद्यालयस्य तत्वावधाने काश्याम् आयोजितायाम् अखिलभारतस्तरीय शास्त्रीयप्रतियोगितायाम् उज्जयिनीस्थ-महर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेण श्री उद्धवपौराणिकेन न्यायभाषण-प्रतियोगितायां "गदाधरीयपञ्च-लक्षण्यां द्वितीयलक्षणेसाध्य भावादिकर्णत्वं केनसम्बन्धेन इति" विषये द्वितीयस्थानं रजतपदकं च् प्राप्तम्। अस्यां प्रतियोगितायाम् आभारतात् नाना संस्थाभ्य: समागता: छात्रा: भागं वहन्ति। प्रदेशस्तरे चित: छात्रा: एव अत्र भागं स्वीकुर्वन्ति। अस्मिन् अवसरे विश्वविद्यालयस्य मान्य: कुलपति: आचार्य विजयकुमार सी जी वर्य: उपस्थित: आसीत् तेनोक्तं यत् विश्वविद्यालयस्य छात्राणां प्रदर्शनं उत्तमम् आसीत् अस्माकं छात्रा:सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभं प्रदर्शितवन्त: पदकानि च अर्जितानि।कुलपतिवर्येण छात्राणाम् आचार्याणाञ्च अभिनंदनं कृतम्। एवञ्च विश्वविद्यालयस्य नीताशर्मा , शिवांशशुक्ल:, अवनीशशर्मा, वैदिकजोशीभि: छात्रै: विविधासु स्पर्धासु प्रतिभागं कृतवन्तः। अवसरेsस्मिन् संस्कृतविश्वविद्यालयस्य कुलपतय:,विद्वांसः आचार्या:, छात्रा:, अन्यजनाश्च उपस्थिता: आसन्।