निष्कामभावनया परहितकर्माचरणं सार्वभौमिको धर्मोस्ति -प्रो. शैलेन्द्रकुमारशर्ममहोदयः
एकादशी- श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठ्याः अष्टमः पर्यायः सम्पन्नः।
चातुर्वेद-संस्कृतप्रचार-संस्थानद्वारा प्रत्येकमेकादश्यां तिथौ देशस्य भिन्न-भिन्नविश्वविद्यालयैः महाविद्यालयैः सह सम्मिल्य पाक्षिकी श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठी समायोज्यते। सम्प्रति वैशाखकृष्णैकादश्यां रविवासरे संस्कृतविभाग-कलासंकाय-काशीहिन्दूविश्वविद्यालयः वाराणसी, श्रीभरतसंस्कृतमहाविद्यालयः छपरा बिहारः इत्येतेषां संयुक्ततत्वावधाने गोष्ठ्या अष्टमः पर्यायः सुसम्पन्नोऽभूत्। अत्र विशिष्टवक्तारूपेण काशीहिन्दूविश्वविद्यालयतः प्रो.सदाशिवद्विवेदी वर्यः आसीत्। महोदयः 'वर्तमानपरिप्रेक्ष्ये गीतोपदिष्टयोगविद्याविमर्शः' इति विषयमादय प्रोवाच यत् गीता योगविद्यायाः सर्वजनग्राह्यः, सरलः, सर्वसमादृतश्च ग्रन्थो विद्यते। योगी कः ? इति जिज्ञासायाम् आहार-विहार-चेष्टा-दिनचर्यादिभिः समन्वितो व्यवस्थितो वा योगी भवति। तस्य कृते च फलदायिनी भवति उक्तमपि भगवता श्रीकृष्णेन -
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।
वर्तमान परिप्रेक्ष्ये शारीरिक-बौद्धिक-मानसिकादि शान्तये गीताया योगविद्या श्रेयस्करी वर्तते। यतोहि योगेनैव वाह्यविषयेभ्यः इन्द्रियाणि परावृतो भूत्वा शरीरस्थात्मतत्त्वेन सम्बद्धानि भवन्ति। एवं बहुविधोदाहरणप्रत्युदाहरणादिभिः गीताप्रतिपादितं योगविद्यास्वरूप प्रत्यपादयत्।
मुख्यवक्ता मध्यप्रदेशस्थ विक्रमविश्वविद्यालयीयः, कुलानुशासकः, कलासङ्कायाध्यक्षश्च प्रो. शैलेन्द्रकुमारशर्ममहोदयः आसीत्। 'सार्वभौमिकधर्मपरिप्रेक्ष्ये श्रीमद्भगवद्गीता' इतिविषयमादाय ज्ञानप्रदं व्याख्यानं प्रदत्तम्। तत्रोक्तञ्च विश्ववाङ्मयस्य सर्वोत्तमोपलब्धिः गीता अस्ति। इयं सार्वभौमिकधर्मस्य आधारशिलास्थापको ग्रन्थोस्ति। भगवतः कृष्णस्य समग्रवाणी अस्ति। तैरुक्तं यत् निष्कामभावनया परहितकर्माचरणं सार्वभौमिको धर्मोस्ति। गीता दिक्कालस्थानधर्मव्यक्तिविशेषस्य नैवापितु सार्वभौमिकधर्मस्योपदेशं ददाति। अत एव गीता लौकिकजीवने यावत्यावश्यकी तावत्येव आध्यात्मिकजीवनेsपि। धर्मो नाम यः मानवान् पालयति, जीवनं सञ्चालयति। इत्थं भारतीयमनीषायाः व्यापकभूमिकायुता संकल्पना धर्मस्यास्ति। सर्वविधाचरणं धर्मत्वेनापि प्रतिपाद्यते किन्त्वधेयमत्र यत् दुर्योधन-युधिष्ठिरद्वावपि धर्मं सम्पादितवन्तौ किन्तु विजयस्तु युधिष्ठरस्येव जातः। अधर्ममपि धर्मत्वेन मन्वानः सदा संशयापन्नो भवति, अन्नयान्नपि तथैव सन्निवेशयति। अतः गीताप्रतिपादतो धर्म एव शाश्वतः, सार्वभौमिकः, अचलस्थश्चेति। अचलनीतिर्यत्र तत्रैव श्रीकृष्णो विराजते।
सर्वादौ भीलवाड़ा राजस्थानतः श्री नवनीतपारीकः वैदिकं मङ्गलाचरणं कृतवान्। समन्वयकः डॉ॰ शरदिन्दुत्रिपाठिवर्यः समुपस्थितानां समेषां विदुषां जिज्ञासूनाञ्च स्वागतवचोभिरभिनन्दनं व्याहृतवान्। ततः आयुष्मती समृद्धि आयुषान् रुद्रांशत्रिपाठनौ गीताश्लोकपाठं कृतवन्तौ। धन्यवादज्ञापनं संयुक्तसंयोजकः डॉ॰ अम्बरीशकुमारमिश्रः शान्तिपाठं डॉ॰ शम्भूत्रिपाठी सञ्चालनञ्च डॉ॰ अरविन्दकुमारतिवारी वर्याः कृतवन्तः। कार्यक्रमं संयोजितवान् डॉ॰ चन्द्रकान्तदत्तशुक्लः सहायकाचार्यः राजकीय स्नातकोत्तर महाविद्यालयः मुहम्मदाबाद-गोहना मऊ उत्तरप्रदेशः। अवसरेsमिन् प्रो. राजेश्वरमिश्रः, प्रो. मञ्जूलताशर्मा, प्रो.रचना शर्मा, प्रो.उमाशंकरत्रिपाठी, डॉ॰ सुनीता जायसवाल, प्रो.विवेकपाण्डेयः, प्रो.जयपालः, डॉ॰ पुष्पा त्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयः, डा.रामकेश्वरतिवारी, डॉ॰ पूनमलखनपालः, डॉ॰ गीताशुक्ला, डॉ॰ नेहा मिश्रा, डॉ॰ रामप्रतापमिश्रः, डॉ॰ आभाद्विवेदी, डॉ॰ सन्ध्या ठाकुर, अनीता चौहान्, अनन्या श्रीवास्तवा, अंकिता विश्वकर्मा, महकमौर्या, डॉ॰ अशोककुमारः, जी.एस.चौधरी, गीता जोशी, सङ्गीता मौर्या, डॉ॰ प्रदीप दीक्षित, प्रिया विश्वकर्मा, ऋषिकान्त उपाध्यायः, निशान्तशुक्लः, डॉ॰ विमलेन्दु त्रिपाठी, श्री रमेशचन्द्रा, डॉ॰ राकेश तिवारी, प्रियंका यादव, डॉ॰ लक्ष्मी सिंह, डॉ॰ सज्जनपासवानः, डॉ॰ श्वेता बरनवालः, डॉ॰ बृजेशकुमारः, डॉ॰ मोहनदासः, राजेन्द्र मायेकरः, डॉ॰ ममता मेहरा प्रभृतयो नैके विदुष्यो विद्वांसो जिज्ञासवश्च समुपस्थिताः आसन्। अग्रिमा गोष्ठी मई मासस्य प्रथमे दिनङ्के भविता।
वृत्तप्रेषकः डॉ॰ उमाकान्तशुक्लः सदस्यः गीतासङ्गोष्ठीसंयोजनसमितिः।