नद्याः अन्तर्मार्गेन मेट्रो रेल् सेवा। इयं भारते प्रथमथया। परीक्षणधावनं सफलम्।
- जगदीश्वरी एम् आर्।
कोल्कता> भारतस्य प्रथमं जलान्तर्गत-मेट्रोतुरङ्गपरीक्षणं सफलम् जातम्। परीक्षणधावनं कोल्कत्तायां एस्प्लानेड्-नगरात् हौरा-नगरं यावत् आसीत्। जलान्तर्गत-मेट्रोतुरङ्गस्य दीर्घता ४.८ कि.मी. इत्यस्ति। षट् पेटिकायुक्तं मेट्रोरेल् यानम् प्रयोगाय उपयुक्तम्। मेट्रोरेल् पथः हुग्ली-नद्याः जलान्तर्भागे ३० मीटर् अधः भवति इत्यस्ति विशेषता। १२० कोटिरूप्यकाणां व्ययेन एषा परियोजना कार्यान्विता अभवत्।