राष्ट्रस्य प्रथमः केबिल्-स्टे रेल् सेतुः सज्जः; रेल् मन्त्री चलनचित्रं प्रकाशितवान्।
-राणिमोल् एन् एस्
नवीदिल्ली> केन्द्रीयरेल् मन्त्री अश्विनीवैष्णवः अञ्जीखाड् सेतोः चलनचित्रखण्डं प्रकाशितवान्। इयं भारतस्य प्रथमा केबिल्-स्टे रेल् सेतुर्भवति। जम्मू-काश्मीरस्य रियासिमण्डले स्थितस्य सेतो: निर्माणप्रगतेः चलनचित्रमेव तेन प्रकाशितम्।
९६ केबिल् सहितस्य अस्य सेतो: दीर्घता ६५३ कि. मी. एव। "११ मासै: एव राष्ट्रस्य प्रथम सेतो: निर्मिति: पूर्तीकृता।
९६ केबिल् द्वारा सज्जीकृता अस्य दैर्ध्यं ६५३ कि. मी. मिता" इति पादटिप्पण्या एव मन्त्रिवर्य: वीडियो ट्वीट् कृतवान्। अयं सेतु: जम्मुदेशात् ८० कि. मी . परिमिते दूरे वर्तते। उदम्पूर्-श्रीनगर्-बारामुल्ला रेल्परियोजनाया: भागोऽयं सेतु: जम्मुकाशमीरस्य कतरा-रियासी मण्डलयोः परस्परबंधनाय निर्मितोऽस्ति। आगामिमासेेषु सेेतुनिर्माणं सम्पन्नं भविष्यति इति अधिकारिणः प्रतीक्षां कुर्वन्ति।