बाह्याकाशे अवशिष्टाः वर्धन्ते। परिहाराय अमेरिक्कीयसर्वकारः निजीयपरिषदः च।
बहिराकाशदौत्यानां भागतया इदानीन्तनकालपर्यन्तं सहस्रशः अवशिष्टाः बहिराकाशे राशीकृताः सन्ति। एते कोटिशः धनानि व्ययीकृत्य भ्रमणपथे विन्यस्तेभ्यः उपग्रहेभ्यः बहिराकाशनिलयेभ्यः च भीषां जनयन्ति। सन्दर्भमिदं प्रत्यभिज्ञाय बाह्याकाशशुद्धिं दृढीकर्तुं नूतननियमान् आविष्कर्तुम् अमेरिक्केन प्रयत्नः आरब्धः।बाह्याकाशे राशीकृतानां अवशिष्टानां निवारणाय निजीयपरिषदः अमेरिक्कीयसर्वकारः च बृहद्रूपेण धननिक्षेपं कुर्वन्तः सन्ति।