दिनद्वयसन्दर्शनाय राष्ट्रपतिः केरलं प्राप्स्यति।
अनन्तपुरी> दिनद्वयस्य सन्दर्शनाय राष्ट्रपतिः द्रौपदी मुर्मू १६तमे दिनाङ्के केरलं सम्प्राप्स्यति। राष्ट्रपतिपदप्राप्त्यनन्तरं मुर्मूवर्यायाः प्रथमं सन्दर्शनं भवत्येतत्।
मार्च्मासस्य २६ तमे दिनाङ्के कोच्चीं प्राप्यमाणा राष्ट्रपतिः 'ऐ एन् एस् द्रोणाचार्यं' सन्द्रक्ष्यति। १७ तमे दिनाङ्के अनन्तपुरीं गत्वा कुटुम्बश्री संस्थायाः २५ तमे संवत्सरीयोत्सवे भागं करिष्यति। ततः सायं सार्धत्रिवादने लक्षद्वीपं गमिष्यति।