एच् ३ एन् २ वैराणुव्यापनम् : पूनेषु प्रथममरणम्। भारते रोगाणुबाधया मृतिमुपगतानां संख्या नव अभवत् ।
पूने> भारते एच् ३ एन् २ वैराणुव्यापने वर्धिते सन्दर्भे भारतीय-आयुर्विज्ञान-अनुसन्धान- परिषदा पूर्वोपायः निर्दिष्टः आसीत्। इदानीं पूनेषु पिंपरि चिञ्चवाटेषु एच् ३ एन् २ वैराणुबाधया त्रिसप्ततिवयस्कः मृतः इति वार्ता बहिरागच्छति। रोगव्यापने वर्धिते सन्दर्भे महाराष्ट्रस्य स्वास्थ्यमन्त्रालयेन अतिनियन्त्रणानि आनीतानि। जनैः मुखावरणं धरणीयम्, सामाजिकदूरं पालनीयम् इति स्वास्थ्यमन्त्रिणा तानाजि सावन्तिना प्रोक्तम्।