'एछ् ३ एन् २' ज्वरबाधया भारते द्वौ मृतौ।
नवदिल्ली> इदं प्रथमतया भारते एछ् ३ एन् २'नामकवैराणुबाधया मरणं स्थिरीकृतम्। कर्णाटके हासन् जनपदस्थे आलूर् प्रदेशे हीरे गौडा नामकः ८२ वयस्कः, हरियाने जिन्द् प्रदेशीयः ५६ वयस्कश्च पूर्वोक्तनामकवैराणुबाधया एव मृत्युमुपगताविति दृढीकृतम्। हीरे गौडा मार्च् प्रथमे दिनाङ्के हरियानीयः मार्च् ८ तमे दिनाङ्के च मृतिं प्राप्तवन्तौ। द्वावपि रक्तातिमर्द-प्रमेहादिकैः इतररोगैः पीडितौ इति सूच्यते।
उच्चतर व्यापनशक्तियुक्तोSयं एछ् ३ एन् २ वैराणुः अत्यधिकं मरणकारणमिति ICMR संस्थया निर्णीतमस्ति। कोविडसमानमेवास्य ज्वरस्य लक्षणानि। राष्ट्रस्य स्वास्थ्यमन्त्रालयेन इदानींतनावस्थाः निरीक्ष्यमाणाः वर्तन्ते।