तुर्की-सिरिया भूकम्पः - मरणानि २३,००० अतीतानि। रक्षाप्रवर्तनानि दुष्करेण अनुवर्तन्ते।
गासियेन्टेप्> तुर्की, सिरिया राष्ट्रयोः सीमाप्रदेशेषु सोमवासरे दुरापन्ने भूकम्पे मृत्युभूतानां संख्या २३,००० अतीता। ये रक्षां प्राप्तवन्तः ते अतिशैत्यात् रक्षां प्राप्तुं अतिकष्टं सहन्ते। रक्षाप्रवर्तनान्यपि दुष्करेण अनुवर्तन्ते।
वीथयः शिथिलाः, विद्युत्सम्पर्काः न पुनःस्थापिताः, अत्यतिन्यूनं तापमानम् इत्यादिभिः कारणैः दुरन्तस्थानं प्राप्तुं रक्षासंघाः अतिकष्टमनुभवन्ति।