कोण्ग्रस् दलस्य परिपूर्णमेलनं सम्पन्नम्।
रायपुरम्> सामाजिकनीतिविषये अभूतपूर्वं निर्णयं कृत्वा, विपक्षराजनैतिकदलानाम् ऐक्यविषये सुव्यक्तं राजनैतिकसन्देशं प्रकाश्य च छत्तीसगढस्य रायपुरे भारतदेशीयकोण्ग्रस् दलेन आयोजितं दिनद्वयात्मकं ८५तमं परिपूर्णसम्मेलनम् समाप्तम्।
शासनपदमागमिष्यति चेत् प्रतिदशसंवत्सरं आयोज्यमानेन जनसंख्यागणनेन सह सामाजिक-आर्थिक-जातिगणनमपि विधास्यति। ओ बि सि विभागाय सविशेषं मन्त्रालयं च प्रतिस्थास्यतीति दलस्य उद्घोषणं जातम्।