बि बि सि संस्थायाः आयः गणनायां न दृश्यते। कानिचन धनविनिमयेषु करः न दत्तवन्तः ।
नवदिल्ली> बि बि सि संस्थासु त्वरितान्वेषणं कृत्वा अनन्तरम् आयकरसंस्थायाः अध्यक्ष: वदति यत् बि बि सि संस्थायाः प्रमाणितः आयः तथा तेषां प्रवर्तनानि च न सन्तुलितानि इति । सर्वेक्षणे ईदृशी असन्तुलिता वित्तलेखगणाना विविधेषु प्रवर्तनेषु दृश्यते इति आयकर-विभागस्य वृत्तपत्र विज्ञप्त्यां दृश्यते।