जोषिमठे मृत्प्रपातः अनुवर्तते; जनाः पलायनं कुर्वन्ति।
जोषिमठे विघटितं वासस्थानं स्थलं च। |
नवदिल्ली> उत्तराखण्डराज्यस्य तीर्थाटननगरे जोषिमठे वासगृहाणां भवनानां च विश्लेषणम् इति प्रतिभासात् जनाः भीत्यां वर्तन्ते। अधिष्ठानभूम्यां मृत्प्रपातः एव कारणमिति अभिज्ञमतम्। सप्ताहद्वयं यावत् अनुवर्तमानोSयम् आलोकः।
राष्ट्रियदुरन्तनिवारणसेना तथा राज्यदुरन्तनिवारणसेना च दुरापन्नस्थाने निवेश्य ६०० परिवाराणां स्थानपरिवर्तनाय प्रयत्नं करोति।
समुद्रतलात् ६००० पादपरिमितायामुन्नत्यां भूकम्पसाध्यतायुक्ते अस्मिन् हिमालयक्षेत्रे नियमान् तिरस्कृत्य कृतानि निर्माणप्रवर्तनानि एव दुरन्तकारणमिति तद्प्रदेशीयाः आरोपयन्ति।