राष्ट्रपितुः महात्मागान्धिनः स्मृतिदिनम् आराष्ट्रं समाचरितम्।
नवदिल्ली> भारतस्य राष्ट्रपितुः गान्धिमहात्मनः हुतात्मदिनं स्मृतिदिनत्वेन आभारतं समाचरितम्। विद्यालयेषु कार्यालयेषु कर्मशालासु च दिनेऽस्मिन् निमेषद्वयं मौनाचरणं कृतम्।
राजघट् चत्वरे समायोजिते कर्यक्रमे राष्ट्रपतिः माता द्रौपदी मुर्मू स्मृतिकुटीरे पुष्पचक्रं समर्पितवती। सबर्मती आश्रमे सप्ताहावधिकाः कार्यक्रमाः आयोजनीयाः सन्ति। गान्धिनः ७५ तमं स्मृतिदिनं भवति इदम्।