जोशीमठे भूविच्छेदः - उपग्रहसर्वेक्षणं कृतम्।
जोशीमठात् ४००० जनाः सुरक्षितस्थानं नीताः। गृहेषु विदारणं तथा भूमिः विदार्य अधः पतनं च दुरापन्ने उत्तरखण्डे जोशीमठात् ६०० गृहाणि विजनमकरोत्। ४००० जनाः सुरक्षितस्थानेषु नीताः। प्रदेशे उपग्रह सर्वेक्षणानन्तरमेव जनाः सुरक्षितस्थानं नीताः। जोशीमठे समीपप्रदशेषु च अन्यानि निर्माणप्रवर्तनानि स्थगयितुं निर्देशो दत्तः। उदग्रयानानि अन्यानि वाहनानि च सुरक्षायै सज्जीकृतानि च॥