विश्वचषकयष्टिक्रीडा - भारतं बहिर्गतम्।
न्यूसिलान्टं प्रति 'सडन् डत्' प्रकारेण पराजयः।
भुवनेश्वरम्> यष्टिक्रीडायां भारतस्य विश्वचषकाभिलाषः अस्तंगतः। 'सडन् डत्' नामकं क्रीडाविशेषपर्यन्तं दीर्घितायां प्रतियोगितायां न्यूसिलान्टं प्रति पराजित्य भारतं क्रीडापरम्परातः बहिर्गतम्। निश्चितसमये ३ - ३ इति लक्ष्यकन्दुकरीत्या समस्थितिं प्राप्ता प्रतियोगिता 'षूटौट्' ततः 'सडन् डत्' इत्येतं दीर्घिता। तत्र ४ - ५ इतिरीत्या भारतं पराजितमभवत्।
अनेन न्यूसिलान्टः चतुर्थांशं प्राविशत्। चतुर्थांशे न्यूसिलान्टः बल्जियं प्रति स्पर्धिष्यते।