ईजिप्तस्य राष्ट्रपतिः भारतं प्राप्तवान्।
गणतन्त्रदिनोत्सवे मुख्यातिथिः।
नवदिल्ली> भारतस्य इदानींतनगणतन्त्रदिनोत्सवस्य मुख्यातिथिः ईजिप्तराष्ट्रस्य राष्ट्रपतिः अब्देल् फत्ता अल्- सि सि वर्यः गतदिने सायं भारतं प्राप्तवान्। बुधवासरे दशवादने राष्ट्रपतिभवने तस्मै समुचितं स्वीकरणं विधास्यति। तदनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलिष्यति।
भारतेन सह विविधमण्डलेषु परस्परसहयोगाय षट्सु सन्धिषु ईजिप्तराष्ट्रपतिः हस्ताक्षरं विधास्यति च।