यु एस् राष्ट्रे तीव्रव्यापनाय कारणभूतः कोविड् विभेदः भारते अपि वर्धते। भारते २६ प्रकरणानि।
नवदिल्ली> अमेरिक्काराष्ट्रे तीव्रव्यापनाय हेतुभूतः कोविडस्य एक्स् बि बि.१.५ विभेदः भारते अपि वर्धते। ११ राज्येषु नूतन विभेदः संक्रमितः अस्ति इति इन्सागोग् संस्थया बहिः प्रकाशिते दत्तांशे सूचितमस्ति। अमेरिक्काराष्ट्रे ४४% कोविड् प्रकरणानां हेतुः एक्स् .१.५ भवति। चीनेषु कोविड् व्यापनाय हेतुभूतस्य बि एफ्.७ विभेदस्य १४ प्रकरणानि राष्ट्रे प्रतिवेदितानि। कोविड् विभेदेषु अतिव्यापनक्षमः एषः विभेदः प्रथमं सिङ्गपूरे एव प्रतिवेदितः।