जापानराष्ट्रे कोविड्वैराणुः व्याप्यते अतिद्रुतया
टोकियो> चीन- अमेरिका-जापान-राष्ट्रेषु कोविड् वैराणुव्यापनं भीदितं वर्धते इत्यस्ति प्रतिवेदनम्। नूतनविभेदाः एव त्वरितव्यापनस्य कारणम् इति अनुमीयते। जनुवरिमासस्य मध्ये पूर्वसंवत्सरापेक्षया अधिकं व्यापनं भविष्यति इति स्वास्थ्यविशारदाः अभिप्रयन्ति। रोगप्रसारणं रोद्धुं न शक्यते चेत् मरणानि वर्धिष्यन्ते अतुरालयाः रोगिभ्यः उद्गमितपूर्णाः स्युः इति टट्टेडा कहुसिरो नामकः प्रमुखस्वास्थ्य-वैज्ञानिकः अवदत्॥