पञ्चराष्ट्रेभ्यः आगतानां RTPCR पत्रम् अत्यावश्यकम्।
नवदिल्ली> कोविड्व्यापितेभ्यः पञ्चभ्यः राष्ट्रेभ्यः ये भारतमागन्तुमिच्छन्ति तेषां RTPCR परिशोधितपत्रम् अत्यावश्यकमिति भारतसर्वकारेण आदिष्टम्। चीनः, जप्पानं, दक्षिणकोरिया, होङ्कोङः, ताय्लान्टः इत्येतेभ्यः राष्टेभ्यः आगन्तुकानाम् अद्य आरभ्य एवेयं व्यवस्था।