जनुवरिमासे भारते कोविड् व्यापनं भविष्यति। आगामि ४० दिनानि अतिश्रद्धेयानि।
नवदिल्ली> भारतस्य स्वास्थ्यमन्त्रालयेन कोविड् प्रतिरोधमुद्दिश्य जाग्रतानिर्देशः ख्यापितः। अगामि जनुवरिमासस्य मध्ये कोविङ्बाधितानां संख्या वर्धिष्यते। अत एव आगामि ४० दिनानि यावत् अतिश्रद्धया परिपालनीयानि। विदेशात् समागतानां संख्या वर्धते इत्येव भवति रोगाणुबाधायाः वर्धनस्य कारणम्। दिनद्वयाभ्यन्तरे समागतेभ्यः ३९ यात्रिकेभ्यः कोविड्बाधा अस्ति इति निर्णीतम्। कोविड् BF7 इति वैराणुः एव इदानीं सर्वत्र प्रतिवेदिता।