उत्तरभारते अतिशैत्यं; गमनागमनव्यवस्थाः शिथिलीभूताः।
नवदिल्ली> राष्ट्रस्य राजधानिनगरेण समं उत्तरभारतस्य बहवः प्रदेशाः अतिशैत्यस्य ग्रहणे जाताः। दिल्ल्यां गतदिने तापमानम् अवरतः ५. ३ डिग्री सेल्ष्यस् आसीत्। परमतः तापमानं तु १५ च।
पञ्चाबः, हरियानं, काश्मीरराज्येषु राजस्थान-उत्तरप्रदेशयोः प्रदेशेषु च अतिशैत्यम् अनुभूयते। दिल्ल्यां विद्यालयानां प्रवर्तनकालः परिष्कृतः। दिनद्वयमपि एषा अवस्था अनुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।