इडुक्कि तत्कालिकविमाननिलये चतुर्भ्यः विमानेभ्यः अनुमतिः प्रदत्ता। शबरिगिरि तीर्थयात्रापि परिगणयति।
इडुक्कि केरलम्> प्रतीक्षानुसारं वण्डिपेरियार् सत्रं विमाननिलये प्रथमविमानस्य भूस्पर्शामभवत्। इडुक्किदेशस्य आकाशस्वप्नाः सफलीभूताः। जनद्वयोः सञ्चाराय योग्यं वैरस् एस् डब्ल्यु ८० नाम लघुविमानं विजयरूपेण भूस्पर्शमकरोत् । तत्पश्चात् विमाननिलये चतुर्णां लघुविमानानाम् अपि सेवायै अनुज्ञा प्रदत्ता। धावनपथे परीक्षणडयनं विजयकरमभवत् इत्यतः विलम्बं विना एन् सि सि छात्रसैनिकानां कृते विमानडयन परिशीलनमपि विमानपत्तने समारप्स्यते।