ब्रसीलः पूर्वचतुर्थांशपादं प्रविष्टः ; घाना विजिता, कामरूणस्य समस्थितिः।
दोहा > श्रेष्ठक्रीडकं नेय्मरं विनापि क्रीडितं ब्रसीलदलं विजयेन विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थाशं प्रविवेश। अत्युत्साहपूर्णे प्रतिद्वन्द्वे ब्रसीलेन स्विट्सर्लण्ट् दलं [१ - ०] इति रीत्या पराजितम्।
अन्यस्मिन् प्रतिद्वन्द्वे [३-२] इति लक्ष्यकन्दुकक्रमेण घाना दक्षिणकोरियां पराजितवती। तथा च सेर्बियां प्रति कामरूणदलं समस्थितिमपालयत् [३-३]।