चन्द्रः भूम्याः दूरं प्रयाति इति अध्ययनम्।
न्यूयोर्क> भूमिचन्द्रयोः मध्ये दूरं वर्धते इति बाह्याकाशवैज्ञानिकाः वदन्ति। प्रतिसंवत्सरं भूमेः चन्द्रस्य च मिथः दूरं वर्धते इति वैज्ञानिकैः संदृष्टम्। नासायाः अप्पोलो नियोगात् एव एतत्संबन्धीनि विवरणानि वैज्ञानिकेभ्यः उपलब्धानि।