डि वै चन्द्रचूडः भारतस्य नूतनः मुख्यन्यायाधिपः।
नवदिल्ली> भारतसर्वोच्चन्यायालयस्य ५० तमः मुख्यन्यायाधिपरूपेण डि वै चन्द्रचूडः राष्ट्रपतिना नियुक्तः। इदानीन्तनमुख्यन्यायाधिपस्य यू यू ललितवर्यस्य निवृत्त्यनन्तरं नवम्बर नवमे दिनाङ्के सः स्थानं स्वीकरिष्यति।