'पोपुलर् फ्रन्ट्' निरुद्धम्।
नवदिल्ली> पोपुलर् फ्रन्ट् नामकं संम्घटनम् अष्ट अनुबन्धसंघटनानि च केन्द्रसर्वकारेण निरुद्धानि। ५ वर्षाणि यावत् 'नियमविरुद्धप्रवर्तननिरोधनियम्' [यू ए पि ए] अनुसृत्य एव निरोधः।
इस्लामिक् स्टेट् नामक आगोलभीकरसंघटनेन सह संबन्धः, राष्ट्रस्य सुरक्षाम् अखण्डतां परमाधिकारं च विरुध्य प्रवर्तनानि, आतङ्कवादप्रवर्तनानि, तदर्थमार्थिकसमाहरणं, इत्यादीन् अपराधान् गणयित्वा एव निरोधः कृतः।