विद्वेषभाषणानि रोद्धुम् पर्याप्तः नियमः आवश्यकः - सर्वोच्चन्यायालयः।
नवदिल्ली> विद्वेषभाषणानि रोद्धुम् इदानीं पर्याप्तः नियमः नास्ति इति उक्त्वा दत्तायां याचिकायाम् आसीत् न्यायालयस्य निरीक्षणम्। एतदर्थं नियमनिर्माणं केन्द्रसर्वकारेण केन कारणेन न क्रियते इति न्यायालयेन अपृच्छत्। विद्वेषभाषकेभ्यः वार्तावाहिन्यः वेदिकां सज्जीक्रियन्ते इत्यपि सर्वोच्चन्यायालयेन परामृष्टम्। विद्वेषभाषणानि प्रतिरोद्धुं केन्द्रनियममन्त्रालयेन कृतायाम् अनुशंसायां केन्द्रसर्वकाराय स्वाभिमतं ज्ञापयितुम् आदेशः दत्तः।