भारतस्य शुक्रयानयोजनायां भागं स्वीकर्तुं फ्रान्स्-रष्या राष्ट्रे अभिलषितः।
नवदिल्ली> भारतस्य शुक्रयानम् इत्यस्यां नूतनायां योजनायां भागं स्वीकर्तुं फ्रान्स्-रष्याराष्ट्रे च आवेदनम् प्रकाशितम्। शुक्रग्रहस्य अन्तरिक्षसंबन्ध्यध्ययनाय भारतेन क्रियमाणा प्रथमा योजना भवति इयम्॥