संस्कृताध्येतृभ्यः संगणके ई-संसाधने च दक्षता अनिवार्या।
संस्कृताध्येतारः संगणके ई-संसाधने च दक्षा भवन्तु, प्राचीनतमज्ञान-विज्ञानादीनाम् अद्यतनज्ञानविज्ञानैः सह सामञ्जस्यं स्यात्, संस्कृतसंवर्धने ई-संसाधनानां सम्यक्तया प्रयोगकर्तारः अधिकाधिकजनाः स्युः तदर्थम् उत्तरप्रदेशसंस्कृतसंस्थानेन निःशुल्कं संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः कृतः अस्ति। राट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेष्वपि संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता- विषयिणी सप्तदिवसीया कार्यशाला जुलै मासस्य १४ दिनाङ्कतः प्रवर्तमाना वर्तते। प्रथमदिने संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वविशिष्टसम्बोधनेन संस्कृतज्ञान् आहूतवन्तः। एकस्मिन् हस्ते संस्कृतम् अपरे संगणकं स्थाप्य स्वकीयबौद्धिकी यात्रा करणीया भविष्यति। अतः एतादृशी कार्यशाला अग्रेऽपि आवश्यकी भविष्यति।कार्यशालायाम् आभारताद् नव- शताधिकाः जिज्ञासवः शिक्षकाः, छात्राश्च प्रतिभागिनः सन्ति। कार्यशाला प्रत्यहं सायं षड् वादनतः सपाद अष्टवादनं यावत् सत्रद्वये प्रवर्तते। अत्र प्रथमे दिवसे दिल्लीविश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः प्रौद्योगिकी क्षेत्रस्य विशिष्टतां विज्ञापितवन्त: तथा च नूतनसौफ्टवेयर-तन्त्रांशान् च बोधितवन्तः। ते निर्माणप्रक्रियापूर्वकं विशेषतामपि प्रकटितवन्तः। संस्कृतनिष्ठशब्दप्रयोगव्यवहारदृशा तेषां व्याख्यानं रूचिकरमासीत्
कार्यशालायाः द्वितीयदिवसस्य प्रथमसत्रे डॉ॰ विपिनकुमारझामहोदयाः संगणकस्य सामान्यं परिचयं तथा संगणकस्य उपयोगितायाः विषये व्याख्यानं दत्तवन्तः। द्वितीयसत्रे झारखण्डतः डॉ नृपेंद्र पाठकमहोदयाः संगणकस्य परिचयं दत्त्वा विभिन्नसंसाधनानां विषये विविधरीत्या प्रयोगादिकं बोधितवन्तः।
कार्यशालायाः तृतीयदिवसस्य प्रथमसत्रे डॉ॰ दिवाकरमिश्रमहोदयाः गूगलअसिस्टेंटमाध्यमेन ध्वनिटंकणविधिं च ज्ञापितवन्तः। अत्र एभि: संस्कृतस्य प्रौद्योगिकीक्षेत्रे आजीविकाया: सविस्तारं विवेचनमपि कृतं एभि: निगदितं यत् संस्कृतभाषाव्याकरणदृशा परिष्कृता परिपूर्णा चस्ति अत एव प्रौद्योगिकी क्षेत्रे अस्या: महत्त्वमधिकं वर्त्तते अस्मिन् क्षेत्रे जना: कार्यं कर्तुं शक्नुवन्ति। द्वितीयसत्रे डॉ सुभाषचन्द्रमहोदयाः विभिन्नटंकणलिपीनां, एमेसाफिस- इत्यदीनां सविस्तरं प्रशिक्षणं कृतवन्तः। पी पी टी निर्माण माध्यमेनशिक्षणं प्रभावमयं कथं भवेत् एभि विवेचितम्।
कार्यशालायाः चतुर्थदिवसस्य प्रथमसत्रे डॉ॰ चन्द्रकान्ततदत्तशुक्लमहोदयाः ऑनलाइन माध्यमेन पाठनशिक्षणस्य ये ये माध्यमा भवन्ति तेषु जूम- मीट -वेवेक्सइत्यदीनां बोधनं कृतवन्तः तथा चैतेषां प्रायोगिकपक्षान् सहज-सरल-बोधगम्या रीत्या प्रतिपादितवन्तः।
षष्ठदिवसस्य प्रथमसत्रे डॉ नृपेन्द्र पाठकमहोदयै: Google Translate इत्यस्य विषये सविस्तरं बोधितं तदनु विभिन्न "आनलाईन साइट"इत्यस्य विषये अपि प्रतिभागीनां दिग्दर्शनं कृतम्। द्वितीयसत्रे डॉ॰ जगदानन्दझा महोदया: विभिन्नपत्रपत्रिकाणां, पाण्डुलिपीनां, "संस्कृतब्लाग, आनलाईन आर्काइव" इत्यादीनां सहज- सरल- सुगम -सुबोधरीत्याध्यापनम् अकुर्वन् ।
अस्या: कार्यशालाया: मूलमुद्देश्यमस्ति संस्कृतज्ञानां प्रौद्योगिकी- क्षेत्रे सामान्यं ज्ञानं भवेत् येन ते सर्वे तान्त्रिक युगे परिपूर्णा: भवेयु:। अत्रेदमप्यमवधेयमस्ति यत् कार्यशालायामस्यां राष्ट्रीय- शिक्षानीते: संगणकविषयस्य सर्वे विषया: सूक्ष्मतया विवेचिता: प्रत्यहं सत्रद्वयेऽपि प्रतिभागिन: अहमहमिकया प्रतिभागं कुर्वन्तः सन्ति। कार्यशालायाः सञ्चालनं डॉ॰ जगदानन्दझामहोदयस्य नेतृत्वे डॉ॰ चन्द्रकान्तदत्तशुक्ल, डॉ॰ अवनीनन्द्रकुमारपाण्डेय, डॉ॰ प्रतिभा आर्या, डॉ॰ अरुणकुमारप्रभृतयः संयोजनसदस्याः कुर्वन्तः सन्ति। अत्र विशेषेण डॉ॰ गीता शुक्ला, डॉ॰अरविन्दकुमारतिवारी, डॉ॰ नवलता, डॉ॰ विमलेन्दुकुमारत्रिपाठी, देवघरम्, प्रो. प्रमिला तिवारी, डॉ॰ अरविन्दमिश्र, डॉ॰ रोशनी, डॉ॰ प्रीति वाधवानी, डॉ॰ सन्दीपकुमार, डॉ॰ सन्ध्या ठाकुर, डॉ॰ अर्चनाश्रीवास्तव, डॉ॰ प्रदीप दीक्षितप्रभृतयः शिक्षकाः, श्री अखिलेशत्रिपाठी, दीनदयालशुक्ल, बडोनी, अनन्या, शालिनी, मानाराम प्रभृतयः जिज्ञासव: छात्राः सोत्साहं प्रतिभागं कुर्वन्तः सन्ति ।