अमरनाथ तीर्थाटने ७ मरणान्यपि।
श्रीनगरं> अमर्नाथतीर्थाटनवेलायां गतदिने षट् तीर्थाटकाः एकः अश्वचालकश्च मृताः। अनेन अस्मिन् वर्षे मृतानां तीर्थाटकानां संख्या ४९ अभवत्। जूलाय् अष्टमदिमाङ्के दुरापन्ने झटितिप्रलये १५ जनाः मृताः आसन्।