राष्ट्रे कोविड् प्रकरणानि वर्धन्ते। विमानेषु मुखावरणम् अनिवार्यम् ।
नवदिल्ली> राष्ट्रे कोविड् प्रकरणानि अनुदिनं वर्धन्ते इत्यतः विमान-यात्रिकेभ्यः मुखावरणम् अनिवार्यम् अकरोत्। निर्देशं दत्वा अपि मुखावरणं धर्तुं विमुखेभ्यः यात्रिकेभ्यः निश्चितकालपर्यन्तं मार्गे स्थगनं विमानप्रवेशरोधनं च कर्तव्यम् इति व्योमयाननिर्देशकालयेन विमानसंस्थाधिकारिणः आदिष्टाः। एतेभ्यः यात्रिकेभ्यः दण्डशुल्कः दापनीयः इत्यपि निर्देशकालयेन आदिष्टः। मुखावरणधारणे विमुखान् प्रति कठिनप्रक्रमाः स्वीकरणीयाः इति नवदिल्ली उच्च-न्यायालयस्य आदेशानुसारेण भवति व्योमयानमन्त्रालयस्य अयं निर्देशः ।