केरले प्रतिदिनकोविड्बाधिताः चतुस्सहस्रमतीताः।
अनन्तपुरी> केरलराज्ये प्रतिदिनकोविड्बाधितानां संख्या षण्मासानन्तरं पुनरपि चतुस्सहस्रमतीता। शुक्रवासरे ४०९८ जनेषु रोगः दृढीकृतः। १० मरणान्यपि आवेदितानि। राज्ये रोगस्थिरीकरणमानं १८ प्रतिशतमिति अवर्धत।
अनन्तपुरि जिल्लायां १०३४ जनाः एरणाकुले ९३० जनाः च रोगबाधिताः अभवन्। केरले कोविडेन समं डेङ्किज्वरः, मूषिकज्वरः इत्यादयः सांक्रमिकज्वराः अपि दृश्यन्ते इत्यतः जनाः जागरूकाः भवेयुः इति राज्यस्वास्थ्यमन्त्रालयेन निगदितम्।