भारते कोविड् लघुतरं वर्धते।
नवदिल्ली> राष्ट्रे कोविड्व्यापनं शनैः शनैः वर्धते। प्रतिदिनरोगबाधिताः गतेषु चतुर्दिनेषु त्रिसहस्राधिकाः वर्तन्ते। ह्यः रोगबाधितानां स्पष्टीकरणमानं प्रतिशतमेकं जातम्।
स्वास्थ्यविभागेन निगदितं यत् भारते अधुना चतुर्थतरङ्गस्य सूचना न विद्यते तथापि जाग्रतानिर्देशाः अनुवर्तनीयाः। ६ - १२ वयस्कानां बालकानां कृते वाक्सिनीकरणं जवेन करणीयम्। तथा च वाक्सिनस्य प्रबलीकरणमात्रायाः कालान्तरं नवमासमित्यस्मात् षण्मासमिति परिष्कर्तुं निर्देशः दत्तः।