गूगिल् ट्रांसलेट् अन्तर्जालपुटे संस्कृतभाषा अपि समायोजिता।
गूगिल् ट्रान्सलेट् इत्यस्मिन् अन्तर्जालपुटे गूगिल् संस्थया भारतस्य ८ नवीनाः भाषाः समायोजिताः। तासु संस्कृतभाषा अपि अस्ति इत्यनेन आविश्वं संस्कृतप्रेमिणः मोदन्ते। संस्कृतमपि आन्तर्जालिके पुुुटे भाषारूपेण भवतु इति संस्कृतप्रेमिणां महती अभिलाषा आसीत् । जनेभ्यः लब्धेभ्यः याचनासन्देशेषु संस्कृतं सर्वप्रथमस्थाने आसीत्, अत एव अस्माभिः संस्कृतम् गूगलट्रासलेट् पटले समायोजिता इति गूगिल् संस्थायाः वरिष्ठेण तन्त्रांशाधिकारिणा इस्साक-केसवेल् इत्याख्येन उक्तम् ।
अस्मिन् नुदतु ।