प्राक्तनः प्रधानमन्त्री रनिल् विक्रमसिंगे श्रीलङ्कायाः प्रधानमन्त्रिपदं स्वीकृतवान्।
कोलम्बो> श्रीलङ्कायाः भूतपूर्वप्रधानमन्त्री विक्रमसिंङ्गे पुनरपि प्रधानमन्त्रिपदं स्वीकृतवान्। गुरुवासरे सायंकाले आसीत् स्थानारोहः। पञ्चमवारं भवति महोदयस्य प्रधानमन्त्तिपदप्राप्तिः। किन्तु सभायां तस्य राजनैतिकदलस्य एकं स्थानं एव अस्ति। किन्तु विपक्षदलीयाः अन्यदलीयाश्च तस्य अनुकूलिनः भविष्यन्ति।