भारतनेप्पालौ ६ सन्धिपत्रेषु हस्ताक्षरमकुरुताम्।
नवदिल्ली> शैक्षिक जलवैद्युतमण्डलेषु परस्पर सहवर्तित्वमालक्ष्य भारतनेप्पालराष्ट्रयोर्मिथः ६ सन्धिपत्राणि हस्ताक्षरीकृतानि।
बुद्धपूर्णिमादिनाघोषेषु भागं कर्तुं लुम्बिनीं प्राप्तः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नेप्पालस्य प्रधानमन्त्री षेर् बहादूर् दुबा इत्येभ्यां कृते नयतन्त्रचर्चायाः परमेव सन्धिपत्राणि हस्ताक्षरीकृतानि।