महिलानां स्वतन्त्र्यं मा ध्वंसयतु । सङ्कल्पान् परिवर्तयन्तु - तालिबानं प्रति यु एन्।
अफ्गानिस्थाने महिलाभिः अभिमुखीक्रियमाणायां अस्वतन्त्रतायाम् संयुक्तराष्ट्रसभाया: सुरक्षाधिकारिणाम् आयोगः आशङ्कां प्राकाशयत्। बालिकाभ्यः मानविकमूल्यनिषेधकं नियमं त्यजन्तु इति तालिबानीयाधिकारिणं प्रति तर्जनं कृतम् । विगते दिने तालिबानेन दूरदर्शनस्य महिलाप्रस्तोतृभ्यः मुखम् आच्छादयितुम् आदेशः दत्तः आसीत् । ततः परम् आसीत् UNSC इत्यस्य आह्वानम्। विना विलम्बं विद्यालयाः उद्घाट्य बालिकानां शिक्षाविषये आनुकूल्यं करणीयमित्यपि आयोगेन अह्वानं कृतम्।