संस्कृतसंस्कृतिवैभवाख्यान्ताराष्ट्रियं सम्मेनलं समनुष्ठितम्
विश्वप्रसिद्धाया: अक्षरधामसंस्थया: प्रवर्तकस्य प्रमुखस्वामिमहाराजस्य शताब्दिमहोत्सवावसरे स्वस्तिवाचनसंस्थाया: च एकादशवर्षपूर्त्यवसरे दिल्ल्याम् अक्षरधाममन्दिरस्थे प्रमुखस्वामिसभागरे एकं भव्यं संस्कृतसंस्कृतिवैभवाख्यम् अन्ताराष्ट्रियं सारस्वतसम्मेलनं समनुष्ठितम्। यत्र देशविदेशेभ्य: समागतै: संस्कृतमनीषिभिः विद्वद्भिः शोधार्थिभि: साहित्यकारै: संस्कृतानुरागिभि: च संस्कृतसंस्कृत्यो: संवर्धनार्थं परिचर्चापूर्वकं संस्कृतसंरक्षणसंवर्धनं प्रति नैज-नैज-सद्भावना: प्रकटिता:। सारस्वतसम्मेलनं बी. ए. पी. एस्. स्वामिनारायणानुसन्धा
नकेन्द्रस्य स्वस्तिवाचनसंस्थाया: च संयुक्ततत्त्वावधाने सत्रद्वये समायोजितम् आसीत्। विगतैकादशवर्षेभ्यः निरन्तरं संस्कृतवाङ्मये निहितनिगूढज्ञानतत्त्वानां योगायुर्वेदनाट्यदर्शनव्याकरणशास्त्रप्रभृतीनां संरक्षणसंवर्धनार्थं साहित्यिकसामाजिकसांस्कृतिकसेवायै सक्रियाया: ‘स्वस्तिवाचनम्’ इति संस्थाया: एकादशवर्षाणाम् ऐतिहासिकयात्राया: निदर्शनार्थं एषः सारस्वतसम्मेलनं प्रमुखस्वामिसभागारे सम्पन्नम् अजायत। अन्ताराष्ट्रियसारस्वतसम्मेलने अस्मिन् नैकेभ्य: देशेभ्य: समागतै: संस्कृतविद्वद्भिः चिन्तकै: समालोचकै: आचार्यैः साहित्यकारै: च स्वीयसंस्कृतसंरक्षणविषयकम् उद्देश्यं समेषां पुरत: समुपस्थापितम्। कार्यक्रमस्य आरम्भे स्वस्तिवाचनसंस्थायाः महासचिवेन डॉ. सुनीलजोशीमहोदयेन सम्मेलनस्य उद्देश्य: समेषां पुरत: समुपस्थापितम्।अन्ताराष्ट्रियसारस्वतसम्मेलनस्य मुख्यातिथि: त्रिणिनाद-टोबागो देशस्य भारते उच्चायुक्त: महामहिमशाली डॉ. रॉजर गोपाल वर्य: आसीत्। असौ अतिशय संस्कृतानुरागी भारतीयविद्यान्वेषी च वर्तते। अमुना सभां सम्बोधयता निजवक्तव्ये प्रोक्तं यत् 'वस्तुत: संस्कृतभाषाया: शब्दाः सर्वासु भाषासु बीजरूपेण निहिता: सन्ति इति। अथ च अस्माकं पूर्वजाः अपि भारतदेशादेव त्रिणिनादटोबागो देशं गता: स्युः। मम समीहा अस्ति यत् विश्वस्य प्रत्येकं भाषासु बीजत्वेन स्थितस्य संस्कृतस्य सर्वोत्तमसेवां विना आत्मबोध: नैव भवितुं शक्नोति। य: संस्कृतं पठति स: मदीयत्वदीययोः संकुचितभावनाया: दूरे भवेत्, तथा च 'वसुधैव कुटुम्बकम्' इति भावनां धारयति। अत: समाजे सर्वत्र सौहार्दस्य संवर्धनार्थमपि संस्कृतम् एव आवश्यकम् अस्ति। यतो हि एषा भाषा समस्तविश्वस्य मंगलकरी भाषा अस्ति।'
अस्मिन् अन्ताराष्ट्रियसारस्वतसम्मेलने प्रथमवक्तृत्वेन स्पेन देशस्य प्रसिद्ध: प्राच्यविद्याकोविद: वैयाकरण: संस्कृतशास्त्रप्रसारक: प्रो ऑस्कर पुजोलवर्य: उपस्थितः आसीत् अमुना संस्कृतस्य सर्वकालिकता विषये विशिष्टं व्याख्यानं प्रदत्तम्। अमुना निज सुदीर्घाध्ययनस्य विवरणानां उदाहरणपूर्वकं प्रतिपादितं यत् वस्तुत: संस्कृतवाङ्मयस्य सुरक्षणसंवर्धनं विश्वस्य बृहत्तमी सेवा भविष्यति।
अत्र सारस्वतसम्मेनलनस्य द्वितीयप्रमुखवक्तृत्वेन दिल्लीविश्वविद्यालयस्य दर्शनविभागस्य वरिष्ठ: आचार्य: प्रो. बालगणपतिवर्य: नैजं वक्तव्यं प्रास्तौत्। अस्मिन् सारस्वतानुष्ठाने तृतीयमुख्यवक्तृरूपेण क्रोएशिया देशत: भारतं समवेत्य संस्कृतसंस्कृतिसमुपासननिरत: विश्वगुरुदीपाश्रमस्य उपाध्यक्ष: महामण्डलेश्वर: ज्ञानेश्वरपुरीस्वामिवर्य: उपस्थितः आसीत्। अमुना प्रोक्तं यत् 'सम्प्रति संस्कृतस्य शिक्षणार्थं प्रोत्साहनप्रदानम् अतीव आवश्यकम् अस्ति। एतदाचरणम् विश्वस्य वास्तविकी सेवा भविष्यति इति। यथार्थज्ञानस्य च सपर्या सेत्स्यति।'
चतुर्थवक्तृत्वेन च आधुनिकचलचित्रनिर्माणमाध्यमेन संस्कृतस्य प्रसारप्रचारसंवर्धनसमुपासनरत: संस्कृतचलचित्रनिर्माता निर्देशक: 'पुण्यकोटि' इति प्रसिद्धसंस्कृतचलचित्रस्य निर्देशक: श्रीरविवेङ्कटेश्वरन्वर्य: उपस्थित: आसीत्। अमुना संस्कृतस्य समुन्नयने चलचित्रामणि कथं सहायकानि भविष्यन्ति इति विषये रोचकं वक्तव्यं प्रस्तुतम्।
अन्ताराष्ट्रियसारस्वतसम्मेलनस्य प्रथमसत्रस्य अवसाने प्रस्थानत्रयीभाष्यकारै: भद्रेशदाशस्वामिभि: निजसम्बोधने प्रोक्तं यत् 'वस्तुत: संस्कृतं वैश्विकी भाषा आस्ति भारतं तु तस्याः भाषायाः उद्गमस्थलं वर्तते। अत: मूलस्थले संस्कृतस्य संरक्षणस्य कृते एतन्निभानाम् आयोजनानां महत्त्वं वर्तते। एतदर्थं स्वस्तिवाचनमिति संस्था युवजनेषु संस्कृतस्य लोकप्रियता वर्धनार्थं व्यापकम् अभियानं चालयति। संस्कृतस्य प्रचाराय अनया संस्थया व्यापककार्ययोजना अपि सज्जीकृता अस्ति। स्वामिवर्यै: प्रोक्तं यत् सर्वे जना: जीवनस्य सार्थकतान्वेषणे निरताः सन्ति परन्तु अहं वच्मि यत् अन्यसमस्तकार्येषु जीवनस्य तादृशी सार्थकता नैव अनुभूयते यादृशी सार्थकता संस्कृतस्य अध्यात्मविद्यायां ब्रह्मविद्यायां च समनुभूयते। युगपदेव जीवनस्य सार्थकता समाजस्य सेवार्थं प्राचीनज्ञानविज्ञानस्य लोके प्रकाशनपूर्वकं जनेषु सञ्चेतना प्रसारणम् आवश्यकम् अस्ति। येन वयं विश्वस्य श्रेष्ठतमशास्त्रज्ञानस्य अनुपमरिक्थं समाजस्य समुन्नतये परिष्काराय नैतिकबोधाय च प्रयोक्तुं शक्येत।' एतै: स्वामिभि: निज-जीवने संस्कृतस्य सेवा कथं विधेया इति विषये सभास्थिता: श्रोतृजना: सम्प्रेरिता:। अस्य प्रथमसत्रस्य सफलसञ्चालनं पूज्यस्वामिना ज्ञानानन्दमहाराजेन कृतं किञ्च धन्यवादज्ञापनं स्वातिवाचनसंस्थायाः उपाध्यक्षेण श्रीयुवराजभट्टराईवर्येण कृतम् ।
प्रथम सत्रस्य समापनानन्तरं मध्याह्नभोजनस्य अनन्तरम् उपर्युक्तसाहित्यिकसारस्वतसम्मेनलनस्य द्वितीयसत्रं प्रवर्तितं यस्मिन् सत्रे भारतीयसंस्कृतसंस्कृतिसमुपासिका लंडनत: भारतं समागत्य संस्कृतसंरक्षणसक्रिया संस्कृतसेविका योगसमुपासिका डॉ. लूसी गेस्ट महोदया निजं सारगर्भितं वक्तव्यं प्रदत्तवती। ततश्च संस्कृतप्रसारिका प्रो. शशिबालावर्या स्वीयं वक्तव्यं प्रदत्तवती। तदनु दिल्ली विश्वविद्यालयस्य अङ्गभूतस्य श्रीवेङ्कटेश्वर महाविद्यालयस्य आचार्या पुनीताशर्ममहोदया भारतीया मौखिकी ज्ञानपरम्परा विषये व्याख्यानं प्रदत्तवती। इत: पूर्वं पौलेण्डदेशस्य संस्कृतानुरागी डॉ. स्कार्बिमिर रुचिंस्की निजं वक्तव्यं प्रस्तुतवान्। द्वितीयसत्रस्य धन्यवादज्ञापनं च स्वस्तिवाचनसंस्थायाः उपाध्यक्षेण श्रीयुवराजभट्टराईवर्येण कृतं किञ्च अस्य सत्रस्य सफलसञ्चालनं अक्षरा सात्विक च कृतवन्तौ। अस्मिन् अन्ताराष्ट्रियसारस्वतसम्मेलने पञ्चाशदाधिकाः शिक्षकाः छात्रा: शोधार्थिनश्च प्रतिभागित्वेन उपस्थिता: आसन्। ध्येयम् अस्ति यत् स्वस्तिवाचनम् इति संस्था संस्कृतसंस्कृतिसमुत्थानकल्याणकार्यक्रमान् निरन्तरं सञ्चालयाति।