नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः
वार्ताहरः - देशराज शर्मा-
साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्। परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ
भिनन्दनीयकवे: मिश्रमहाभागस्य परिचयमदात्। परिषद: संरक्षिका श्रीमती रमादेवी शुक्ला, अध्यक्ष: रमाकान्तशुक्ल: सारस्वतातिथि: डाक्टरब्रजेशगौतमश्च माल्यार्पणेन शालसमर्पणेन च मिश्रमहोदयस्य स्वागतमकुर्वन्।। मिश्रवर्य्याय "भाति मे भारतम्' इत्यस्य तथा च "अर्वाचीनसंस्कृतस्य" प्रतिरूपे अप्युपायनीकृते। मिश्रमहाभागै: स्वकाव्यसंग्रहस्य "सृजति शङ्खनादं किल कविता" इत्यस्यैकं प्रतिरूपं कार्यक्रमाध्यक्षाय रमाकान्तशुक्लायार्पितम्। डा. शुक्लेन स्वस्य नवीनतम संस्कृतकविताया "भारतीयोऽस्म्यहम्"इत्यस्याअंशा अपि श्राविता:।स्मरणीयमस्ति यद् डाक्टरविन्ध्येश्वरीप्रसादमिश्र "विनय"स्य प्रथम: कवितासङ्ग्रह: "सारस्वतसमुन्मेष:" देववाणी परिषद्, दिल्लीत: १९८५तमे ऽब्दे प्रकाशितोऽभूत्।