उत्तरप्रदेशे चतुर्थचरणनिर्वाचनं श्वः।
नवदिल्ली> उत्तरप्रदेशे विधानसभानिर्वाचनस्य चतुर्थचरणं बुधवासरे सम्पत्स्यति। सघोषप्रचारणं सोमवासरे समाप्तम्।
९ जनपदेषु ५९ स्थानेभ्यः ६२४ स्थानाशिनः स्पर्धावेदिकायां सन्ति। कृषकाणां प्रक्षोभवेलायां केन्द्रमन्त्रिणः अजय मिश्रस्य पुत्रस्य कार् यानघट्टनेन चत्वारः कृषकाः हताः इत्यनेन प्रकरणेन सर्वदेशश्रद्धां प्राप्तं लखिंपुरमण्डलम् अपि श्वस्तनीये निर्वाचनमण्डले अन्तर्भवति।