भारते ओमिक्रोण् विभेदः सामाजिकव्यापनतलेषु प्राप्तः। नगरेषु वैराणोः सान्निध्यम् सुशक्तम्।
नवदिल्ली> कोविडस्य ओमिक्रोण्
विभेदः भारते सामाजिकव्यापनतलेषु प्राप्तः। मेट्रो नगरेषु एषः प्रभेद: प्रबलः इति इन्साकोगस्य अतिनूतनविवरणिकायां (bulletin) सूचितः अस्ति। विविधराज्येभ्यः सञ्चित्य तेषां जनितकप्रवर्तनानि अधिकृत्य अध्येतुं रूपीकृतानां दश परीक्षणशालानां संगमः भवति इन्साकोग् ( INSCOG-Indian Sarc Covi-2 Consortium Of Genomics) l ओमिक्रोणस्य सांक्रमिक - उपभेदः BA 2 लैनेज् राष्ट्रे अधिकतया दृढीकृतः इत्यपि विवरणिकायां सूचितमस्ति।