भारते कोविड्रोगिणः वर्धन्ते।
नवदिल्ली> शनिवासरे समाप्ते अहोरात्रे राष्ट्रे आहत्य २,३५,५३२ जनेषु कोविड्रोगः दृढीकृतः। ह्यः ८७१जनाः मृत्युभूताः। राष्ट्रे मासेSस्मिन् मृत्युमानं वर्धते इति अवलोकने स्पष्टीकृतम्।
आहत्य ४.०८कोटि जनाः रोगबाधिताः अभवन्। १६५.०४ कोटि प्रत्यौषधानि वितरीतानि।