बालभारती पब्लिक् स्कूल् द्वारा संस्कृतभाषासंवर्धनपरा अन्तर्जालीया सङ्गोष्ठी समनुष्ठिता।
नवदिल्ल्या: गंगाराम-चिकित्सालय-मार्गस्थितेन बालभारती पब्लिक स्कूल इत्याख्यस्य प्रशासनेतर विद्यालयस्य संस्कृतविभाग द्वारा दिसम्बर पञ्चविंश्यां छात्रान् संस्कृताध्ययनम् प्रति प्रेरणार्थं मार्गदर्शनपर: अन्तर्जालीय: व्याख्यानकार्यक्रम: भव्यतया समायोजित:। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल. वी. सहगलवर्यस्य नेतृत्वे, उपप्रधानाचार्याया: श्रीमत्या: मीनामल्होत्रायाश्च प्रेरणया छात्रेभ्य: अभिभावकेभ्यश्च समायोजित:। कार्यक्रमस्य प्रारम्भ: संगीतविषयस्य अध्यापकेन श्री सुमनझामहोदयेन प्रस्तुत मंगलाचरणेन विहितः। विद्यालयस्य माध्यमिकविभागस्य मुख्याध्यापिका पूनम सौंधी वर्या अभ्यागतानाम् अतिथिजनानां वाचिकं स्वागतं सत्कारं च कृतवती।
अस्मिन् अन्तर्जालीय-व्याख्या
न-कार्यक्रमे मुख्य-वक्तृरूपेण समागतेन प्रसिद्धयुवामनीषिणा, लोकप्रिय-प्रेरकवक्त्रा, प्राच्यविद्यानुसन्धात्रा, संस्कृतचलचित्रस्य शाकुन्तलम् इत्यस्य निर्मात्रा निर्देशकेन दुष्यन्तश्रीधरेण विद्यालयस्तरे छात्राणां मासेषु संस्कृतभाषाया: संवर्धनं कथं भवेत् इति विषये सार्गर्भितं व्याख्यानं प्रदत्तम्, अमुना छात्रा: संस्कृतविषयं पठितुम् अपि प्रेरिता:। असौ प्रवोचत् यत् संस्कृतभाषा सर्वासां इण्डोयूरोपीय-भाषाणां जननी वर्तते। सहैव एषा भाषा अतिशय सरला भाषा अस्ति। संस्कृतस्य अधिकांश-शब्दा: अस्माभि: दैनन्दिनजीवने प्रयुज्यन्ते। यदि एषा भाषा अस्माकं व्यवहारभाषा भवति चेत् तन्निभा कठिना नैव प्रतीता भविष्यति । प्राय: सर्वासु भाषासु संस्कृतमूलका: प्रचुरा: शब्दा: सन्ति विद्यमाना:। कार्यक्रमे द्वितीय-मुख्य-वक्तृरूपेण उपस्थित: आसीत् हरियाणाया: ऋषिहुड विश्वविद्यालयस्य राष्ट्रम् स्कूल ऑफ लीडरशिप इत्यस्य आचार्य: प्रोफेसर श्रीसम्पदानन्दमिश्रमहोदय:। प्रोफेसर सम्पदानन्द महोदयेन संस्कृतसंवर्धनविषये छात्राणां दृशा मनोरमशैल्या गम्भीरतया च व्याख्यानं दत्तम्। अमुना भणितं यद् इतरभाषाध्येतारो जना: केवलम् तद् विषयमेव पठन्ति, तत्रैव संस्कृत-भाषाया: अध्येतार: सर्वान् विषयान् पठन्ति। संस्कृतमेव तादृशः एक: विषय: अस्ति, यस्मिन् योग-आयुर्वेद-नाट्य-वेदान्त- व्याकरण-साहित्य-खगोल-
भूगोलश्चेत्यादिविषया: पारेसहस्रं वर्षेभ्यः भारते पापठ्यते। असौ न्यगादीत् यत् संस्कृतस्य अध्येता जीवनकलाभि: अवगतो भवति, येन स: न कदापि अवसादग्रस्तो जायते अपि तु सर्वदा आनन्दित: तिष्ठति। सम्प्रति तु संगणकम् अपि संस्कृतेन संयोजितम् अस्ति। अस्मिन् प्रसङ्गे अमुना देश-विदेशेषु संस्कृताध्यायनरता: निजशिष्याश्चापि उल्लेखिता: ये खलु संस्कृतभाषायाः प्रचार-प्रसार-कर्मसु संलग्ना: सन्ति। तृतीयवक्तृ-रूपेण दूरदर्शनाकाशवाण्यो: पत्रकार:, स्वस्तिवाचन-संस्थायाश्च महासचिव: श्रीसुनीलजोशीमहोदय: उपातिष्ठत। अमुना छात्रप्रेरणापरकस्य अस्य मार्गदर्शन-व्याख्यान-कार्यक्रमस्य भूरि भूरि प्रशंसा विहिता। सहैव विद्यालयस्य प्रधानाचार्यस्य श्री एल. वी. सहगलस्य विषये प्रोक्तं यत् संस्कृतस्य समुन्नयने शिक्षासंवर्धने छात्रप्रेरणाक्षेत्रे अद्वितीयकार्य करणार्थम् सहगलमहाभाग: पद्मश्रीसम्मानयोग्य: अस्ति। युगपदेव असौ बालकान् विभिन्न-उदाहरणानां माध्यमेन संस्कृतपठनार्थं प्रेरिता: । जोशीवर्येण कार्यक्रमस्य आयोजकानाम्, अधिकारिणां शिक्षकानां चापि श्लाघावचोभिः उत्साहवर्धनं कृतम्
कार्यक्रमस्य सफलसञ्चालनम् अतिथिपरिचयप्रदानं च श्रीमती ज्योत्स्ना श्रीवास्तवमहोदया कृतवती । कार्यक्रमस्य समग्रा व्यवस्था, धन्यवादज्ञापनं च प्रतिष्ठितसाहित्याकादेम्या युवपुरस्कारेण पुरस्कृतेन विद्यालयस्य वरिष्ठविभागस्य संस्कृतशिक्षकेण श्रीयुवराजभट्टराई महोदयेन कृतम्। अस्य कार्यक्रमस्य आयोजने संस्कृतशिक्षकस्य वीरेन्द्रकुमारस्य चापि सहयोग: अवर्तत। प्राविधिक-सहयोगे विद्यालयस्य संगणकशिक्षिका भावनागर्ग वर्या विशेषयोगदानं दत्तवती। अस्मिन् अन्तर्जलीयायां संस्कृतसंगोष्ठ्याम् पञ्चमीकक्षात: दशमीकक्षापर्यन्तम् त्रि शताधिकाः छात्रा:, शिक्षका:, अभिभावका:, विद्यालयीया: शिक्षकाश्च उपस्थिता: अवर्तन्त। छात्रदृशा व्याख्यानकार्यक्रमस्य मुख्या: चर्चाविन्दव: निम्नलिखिता: आसन्।
आधुनिकपरिवेशे संस्कृतम्।
चलच्चित्रनाट्येषु संस्कृतम्।
छात्रा: संस्कृतविषयं किमर्थं स्वीकुर्युः ?
जीवने संस्कृतस्य आवश्यकता।
जीवनं सुसंस्कृतं कर्तुं संस्कृतस्य भूमिका।
परीक्षायाम् अङ्कवर्धने सहायकं संस्कृतम्।
अन्ताराष्ट्रियस्तरे संस्कृतम्।
प्राविधिकक्षेत्रे संस्कृतम्।
नूतनशिक्षानीतौ संस्कृतम्।
सर्वकारीयवृत्तौ हिन्द्या: अनिवार्यताविषयिण्या: भ्रांतधारणाया: निराकरणम्।
अन्यविषयाणाम् अपेक्षया संस्कृतमेव किमर्थम्?