हिमो नास्ति, हिमसंहतिः नास्ति। विषफेनेन प्लाविता यमुनानदी।
नवदिल्ली> मलिनीकरणकारणेन नवदिल्ल्यां कालिन्दीकुञ्जस्य समीपे यमुनानद्यां विषफेनः रूपीकृतः। यमुनानद्याः विविधभागाः विषफेनेन आवृताः भवन्। 'चाट्' पूजायां भागं स्वीकर्तुं बहवः भक्ताः अत्र आगतवन्तः आसन्। नद्याम् अमोणियायाः तथा फोस्फेट् मिश्रितस्य च आधिक्यमेव विषफेनरूपीकरणस्य कारणम्। यन्त्राकारात् नद्यां रासमालिन्यानां क्षेपणमेव जले अमोणियायाः तथा फोस्फरस् मिश्रितस्य च आधिक्यस्य कारणम् ।
दिनचतुष्टयं यावत् दीर्घितायां चाट्ट् पूजायां प्रधानतया सूर्यदेवमेव आराधयन्ति। बीहार् तथा जार्खण्डदेशीयाः एव मुख्यतया पूजायां भागं स्वीकुर्वन्ति। आराधना वेलायां भक्ताः नद्यां स्नानं कुर्वन्ति। नदी तु मालिन्यानाम् आधि क्येन उपयोक्तुं न शक्यते च।