शीतीकरणसुविधां विना संरक्षितुं योग्यं कोविड् वाक्सिनः आयाति।
कोविडस्य नूतनप्रभेदान् च प्रतिरोद्धुं शक्तः नूतनः वाक्सिनः आयाति। उत्पादनं ललितं भवति। शीतीकरणसुविधा न आवश्यकी इति तस्य सविशेषता। प्रथिनम् (protein) आधारीकृत्य एव वाक्सिनः निर्मितः। यु एस् राष्ट्रे बोस्टने शिशूनाम् आतुरालयस्थाः गवेषणसङ्घाङ्गाः एव वाक्सिनस्याऽस्य निर्मातारः।