केरले अतिवृष्ट्या भूस्खलनेन च नवजनाः मृताः २० जनाः अप्रत्यक्षाः च।
अनन्तपुरम्> दक्षिणकेरले मध्यकेरले च अतिवृष्टिः अनुवर्तते। कोट्टयं जनपदे कुट्टिक्कल् प्रदेशे महान् भूस्खलनं च अभवत्। नव जनाः मृताः। विंशति जनाः अप्रत्यक्षाः च। रक्षाप्रवर्तनानि अनुवर्तते। अति वृष्टिः वातः भूस्खलनं जलोपप्लवः च रक्षाप्रवर्तनान् बाधन्ते।