चीनेन सीमनि अधिकतया सेनाः विन्यस्यन्ते इति स्थलसेनामुख्यः।
लडाक्> लडाक् सीमनि सर्वत्र चीनः अधिकतया सेनाविन्यासं करोति इति स्थलसेनायाः सामान्य मुख्येन मनोज् मुकुन्द् नरवनेन प्रोक्तम्। लडाक् संघर्षः तथा सेनायाः प्रत्याहरणं च अधिकृत्य आगामिनि वासरे त्रयोदशतमां उभयचर्चां प्रचालयितुं शक्यते इति प्रतीक्ष्यते इत्यपि तेन उक्तम्। अधिकसेनाविन्यासः आशङ्कां जनयति इति सः अवदत्। गतषण्मासाभ्यन्तरे चीनस्य सैन्यं कोऽपि संघर्षः न अजनयत्। सीमनि वातावरणं शान्तिपूर्णं च आसीत् इत्यपि सः व्यजिज्ञपत् ।