सौरयूथस्य उद्भवमन्विष्य लूसी प्रतिष्ठते।
वाषिङ्टण्> ४५० कोटि संवत्सरात् पूर्वं सौरयूथं कथं समुद्भूतम् इति रहस्यम् अवगन्तुं नासा संस्थायाः लूसी नामिका आकाशपेटिका आगामि मासे प्रस्थास्यते । बृहस्पतिः नाम ग्रहस्य पुरतः पश्चात् च सूर्यपरिक्रमणं कुर्वत्सु ड्रोजन् छिन्नग्रहेषु एव लूसी सौरयूथस्य रहस्यम् अन्विष्यति। ट्रोजन् छिन्नग्रहाणां सौरयूथवत् समानवयः अस्ति। अतः लूसी पेटिकया प्रदास्यमानानां नूतनज्ञानानां निर्णायकं स्थानं भविष्यति इति नासायाः ग्रहविज्ञानविभागस्य निर्देशकेन लोरि ग्लेस् महाभागेन प्रोक्तम्।