विविध-सामाजिक-योगक्षेम परियोजनायाः फलभोक्तृन् प्रत्यभिज्ञातुं सुविधाः आयोक्ष्यन्ते।
केरलम्/अनन्तपुरी> राज्ये सर्वेभ्यः सामाजिक-योगक्षेम-परियोजनायाः गुणभोक्तारं प्रत्यभिज्ञातुं योजनाः चेत्तुं च केन्द्रीकृतसुविधायाः आयोजनं सर्वकारेण सज्जीक्रियते। प्रथमस्तरे ३४.३२ कोटि रूप्यकाणि व्ययीकृत्य अनुबन्धतन्त्रांशः (software) यन्त्रांशः (hardware) मानवसंसाधनविकासक्षमता इत्यादीन् आहत्य 'आधार् वाल्ट्' (Aadhaar vault) सुविधा सुसज्जीकृता भविष्यति। कैरल्याः मानव-विभव-पुनर्निमाण विकसनक्षमतायाः (rebuild kerala initiative) अधीने एव योजनाः प्रयोगपदम् आनेष्यति। एतदर्थं मन्त्रिणां आलोचना योगे अनुमतिः प्रदत्ता।